विशिष्टाः प्रतिभाः उद्दिश्य पुरस्कारानुग्रहः।

बेङ्ग्लूरु: होन्नावर-अभिजनं, चदुरङ्गक्रीडायां विशिष्टप्रतिभावन्तं, समर्थ-जगदीश-राव्-नामकम् उद्दिश्य गुरुवासरे श्रीरामचन्द्रापुरमठस्य जगद्गुरवः, श्री-श्री-राघवेश्वरभारती-महास्वामिनः पुरस्कृतवन्तः।   अमेरिका-देशस्थ-न्यूजेर्सि-प्रदेशे आयोजितायां विश्वस्तरीय-कनीयसां चदुरङ्गक्रीडायांसप्तम-आवृत्तौ ५.५ अङ्कानां प्राप्तिपुरस्सरम् अङ्गवैकल्ये सत्यपि प्रथमं स्थानं समर्थः समाप्नोत्।   होन्नावरस्थ एस् डि एम् कलाशालायां B.Com द्वीतीये वर्शे अधीयमानः अमेरिका देशे इदं द्वितीयवारं स्थानमलभत।अयं चदुरङ्गमार्गदर्शकानाम् अजित् एम् पि महोदयानां शिष्यः अस्ति। इतः पूर्वं दि॥ वि आर् शास्त्रि होन्नावर, प्रसाद […]

Continue Reading

ज्ञानदानमेव सर्वमठीयं प्रमुखं कर्तव्यम् – श्रीेसंस्थानम् ।

माणि: ज्ञानदानमेव सर्वेषां मठानां प्रमुखं कर्तव्यम्। तदभावे महान् लोपः आचरितो भवति। विंशतिषु वर्षेषु जनानां मनस्थितिः पर्यवर्तत। इतोऽपि विलम्बम् अकृत्वा वयम् अस्यामेव कालमितौ विश्वविद्यापीठ-संस्थापन-सङ्कल्पम् अकार्ष्म इत्येवं श्रीरामचन्द्रापुरमठस्य जगद्गुरवः शङ्कराचार्य-श्रीश्रीराघवेश्वर-भारती-महास्वामिनः अवादिषुः।   माणि,पेराजे, एवं श्रीरामचन्द्रापुरमठेषु महाक्षेत्रेषु प्रचालितायां विष्णुगुप्त-विश्वविद्यापीठ-मार्गदर्शन-सभायां स्वामिनः स्व-आशीर्वचोभिः सभासदः अन्वगृह्णन् ।   श्रीशङ्कराचार्याः ज्ञानरूपेण बलेन देशं पर्यवर्तिषत। सर्वोत्कृष्ट-आर्षविद्याकेन्द्राणां संस्थानपनापूर्वकं आर्षविद्याप्रदानपुरस्सरं छात्रेषु धर्मनिष्ठा-देशनिष्ठा-संस्कृतिनिष्ठा-सहित-परिपूर्ण-व्यक्तित्व-साधनपूर्वकं समाजस्य परिवर्तनमेव विष्णुगुप्त-विद्यापीठस्य मुख्यम् […]

Continue Reading

सीताकल्याणवैभोगमे…!

वैभोगेन देदीप्यमानं विवाहमण्डपं, पुरोधसां मन्त्रघोषः, पत्नीभिः सह विराजमनौ दशरथसीरध्वजौ, रामाश्रमे सीतारामपरिणयमहित्सवस्य सुकृतं मनोहरं दृश्यम्| जनाकीर्णत्वात् सभाङ्गणे ईषदपि स्थानावकाशः नासीत्| रामभक्ताः तद्दर्शनेन धन्यतामन्वभूवन्|   सत्यम्, परमपूज्याः श्रीश्रीराघवेश्वरभारतीस्वामिभिः विगतेभ्यः २० दिनेभ्यः धारारामायणनाम्ना रामायणकथनं क्रियमाणमस्तीति विदितमेव| अस्यां मालिकायां अद्य सीतारामयोः परिणयप्रसङ्गः प्रस्तुतः| तदङ्गत्वेन कल्याणोत्सवकार्यक्रमश्च सुसम्पन्नः| प्रतिदिनवद् श्रीश्रीराघवेश्वरभारतीस्वामिनः श्रीरामस्य विवाहोत्तरकथानकमप्यकथयन्|   अमृतवर्षिणीसङ्गीतपाठशालायाः शिक्षकाः छात्राश्च कल्याणगीतमगासिषुः| मङ्गलाचरणादूर्ध्वं भक्ताः विष्णुगुप्तविश्वविद्यापीठोदयार्थं धनद्रव्याणि […]

Continue Reading

हव्यकमहासभापरतः निःशुल्कं सार्वजनिकं स्वास्थ्यपरीक्षणशिबिरम्

बेङ्गळूरु – श्री-अखिलहव्यकमहासभया प्रसिद्धवैद्यानां सकाशात् निःशुल्कं स्वास्थ्यपरीक्षणं चिकित्सा च सार्वजनिकसौकर्याय जुलै 14 दिनाङ्के प्रातः 10 वादनतः अपराह्णे 2 वादनपर्यन्तं मल्लेश्वरस्थे हव्यकभवने आयोजयिष्यते|   डा.रविशङ्कर्, डा.दिवाकर भट्, डा.वि.एस्.भट्, डा.अरुण् अडक्कोळि, डा.बालमुरळि, डा.एस्.आर् हेगडे, तथा हव्यकमहासभायाः अध्यक्षः प्रसिद्धवैद्यः डा.गिरिधर कजे इत्यादीनां प्रसिद्धवैद्यनां समूहः तत्र भवति| नेत्ररोगः, दन्तपीडनं, चर्मव्याधयः, स्त्रीरोगः, अर्बुदः, वयोधिक्यात् संभाव्यमानः सन्धिरोगः, कटिवेदनं, शिरोरोगः, इत्यादीनां सर्वविधानामपि […]

Continue Reading

श्रीरामाश्रमे वैभवोपेत-सीतारामकल्याणोत्सवः ।

बेङ्गळूरु :  विष्णुगुप्त-विश्वविद्यापीठ-स्थापन-सङ्कल्पसिद्ध्यर्थं जगद्गुरु-शङ्कराचार्य-श्रीश्रीराघवेश्वर-भारती-महास्वामिभिः प्रचाल्यमान-धारा-रामयण-प्रवचनाङ्गत्वेन जुलै मासस्य १० दिनाङ्के बुधवासरे गिरिनगरस्थ-श्रीरामाश्रमे वैभवोपेत-सीतारामकल्याणोत्सवः आयोजयिष्यते । सीतारामकल्याणोत्सवेन समं  बालकाण्डस्य प्रवचनं समाप्तिमेष्यति । स्वामिनः अस्य मासस्य १५ दिनाङ्के अयोध्याकाण्डस्य प्रवचनम् आरभन्ते । १० दिनाङ्के सायं ६ वादने कल्याणोत्सवस्य पूर्वविधीनाम् आचरणपुरस्सरं ७ वादने मुहूर्तवाचनम् एवं मङ्गलाष्टकम् इत्येवम् अनेके धार्मिककार्यकलापाः अयोज्यन्ते । शुभावसरेऽस्मिन् अमृतवर्षिणीसङ्गीत-विद्यालयस्य विदुषी जयलक्ष्मीः एवं तद्विद्यार्थिन्यश्च सीताकल्याणगीतं प्रस्तुवन्ति । […]

Continue Reading

त्यागेन विना नेतृत्त्वं न सिध्येत्

गिरिनगरम् – नेतृत्वे सति समुदायः सम्यगग्रे सरति, विधिनिर्णयाद् नान्यदस्ति प्रबलम्, कर्तव्येषु कार्येषु विवेचनसामर्थ्यं अवश्यकम्, त्यागेन विना नेतृत्वं नास्तीति रामचन्द्रापुरमठस्य श्रीचरणाः श्री श्री राघवेश्वरभारतीमहास्वामिनः अवादिषुः|   गिरिनगरस्थे रामाश्रमे विष्णुगुप्त-विश्वविद्यापीठसङ्कल्पनेन प्रचाल्यमानायाः धारारामयाणप्रवचनमालिकायाः पञ्चदशे दिने आशीर्वचनं अकुर्वन्|   गोघृतस्य महत्त्वं पुराणकाले द्रष्टुं शक्नुमः | मन्त्रिणः समाजस्य श्रेयोsभिलाषिणः स्युः| भसितस्य किसलयस्य च नैकट्यमस्ति| छात्रेभ्यः संस्कारप्रदशिक्षणं देयम्| सदृढमाधारं विना भित्तिः […]

Continue Reading

गोवायां श्रीधरपादपूजा

वरदहल्लीस्थितात् श्रीधराश्रमात् समागताभ्यां श्रीधरस्वामिनां दिव्यपादुकाभ्यां १३/०३/२०१९ तः १७/०३/२०१९ दिनाङ्कपर्यन्तं गोवायां भक्तजनानां गृहाणि गत्वा पादपूजां भिक्षासेवां च स्वीकृत्य भक्ताः अनुगृहीताः।   १७/०३/२०१९ तमे दिनाङ्के एकादश्यां रविवासरे गोवाहव्यकवलयेन पादपूजाभाग्यमविन्द्यत ।   पादुकावसतौ रेखा-मञ्जुनाथहेगडेदम्पत्योः गृहे सभार्येण डि के हेगडेमहोदयेन द्वितीयासहितेन कृष्णमूर्तिमहाभागेन च पादपूजा निर्वर्तिता।   अभूतपूर्वेऽस्मिन् समारम्भे उपपञ्चाशत् जनाः उपस्थिताः। अयमवसरः भाग्यवशादेव सम्प्राप्तः इति चिन्तयित्वा सर्वे कृतकृत्यतामन्वभवन् । […]

Continue Reading

श्रीक्षेत्रे गोकर्णे महारथोत्सवः

प्रतिवर्षमिव अस्मिन्नपि वर्षे श्रीक्षेत्रे गोकर्णे विराजमानस्य श्रीमहाबलेश्वरदेवस्य श्रीमन्महारथोत्सवकार्यक्रमः महता वैभवेन सुसम्पन्नः। श्रीमज्जगद्गुरुशङ्कराचार्याः श्रीराघवेश्वरभारतीमहास्वामिनः उत्सवमूर्त्यै धार्मिकविध्युक्तक्रमेण सपर्यां समर्प्य रथोत्सवारम्भमकुर्वन् ।   अद्य शान्तिघटाद्यभिषेकः, रथसम्प्रोक्षणं, दण्डबलिः, भूतबलिः, ग्रामबलिः प्रभृतयः धार्मिकविधयः उपाधिमतां नेतृत्वे प्रावर्तन्त।   तदनु अपराह्णे २.३० वादने श्रीमन्महारथोत्सवः सवैभवं सुसम्पन्नः। उत्तरकर्णाटकम्, बेङ्गलूरु, मङ्गलूरु, महाराष्ट्रम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः समायाताः भक्ताः रथोत्सवे भागमूढ्वा कृतकृत्याः अभवन्। महारथस्य कर्षणसमये भक्तजनानाम् […]

Continue Reading

बसरीकट्टेस्थे ‘श्रीसद्गुरुविद्यानिकेतने’ ‘भारतीयसंस्कृतिशिक्षणशिबिरम्’

चिक्कमगळूरु- चिक्कमगळूरुमण्डलस्य कोप्पोपमण्डलस्य बसरीकट्टेस्थस्य ‘श्रीसद्गुरुविद्यानिकेतनस्य’ ब्राह्मणच्छात्रावासे भारतीयसंस्कृतेः परिचायकं शिक्षणशिबिरमायोजितम् । ११.०૪.२०१९ दिनाङ्कतः १८.०૪.२०१९ दिनाङ्कपर्यन्तं अष्टदिनात्मकमिदं शिबिरं भविता । १० तः २૪ वर्षीयाणां त्रिमतस्थब्राह्मणयुवक-युवतीनामेव शिबिरे अवसरः वर्तते। वेदमन्त्राः, स्तोत्राणि, धर्मः, संस्कृतिः, आचारः, आहारः, संस्काराः, स्त्रीशिक्षणम् , भारतदेशस्य संस्कृतेः वैभवम् इत्यादीनाम् अनेकसद्विचाराणां शिक्षणं प्रदास्यते ।   आसक्ताः ०१.०૪.२०१९ दिनाङ्कात् पूर्वमधः प्रदत्तचरदूरवाणीसङ्ख्यानां सम्पर्कं कृत्वा मौखिकरूपेण प‍ञ्जीकरणं / नामाङ्कनं […]

Continue Reading

वर्धन्त्युत्सववदाचरितम् विद्यालयस्य स्थापनदिनम् ।

  मुजुङ्गावु : मुजुङ्गावुस्थितस्य श्रीभारतीविद्यापीठस्य वर्धन्त्युत्सवः २६.०१.२०१९ तमे दिनाङ्के शनिवासरे संवृत्तः । प्रातः शङ्खानादेन ध्वजारोहणेन च सह कार्यक्रमोऽयमारब्धः । पालक-शिक्षकसङ्घस्य अध्यक्षः पुरुषोत्तमाचार्यवर्यः ध्वजारोहणं विधाय भाषणमकरोत् । शासनसमितेः अध्यक्षः एस्.एन्.राव् मुन्निप्पाडिवर्यः हितवचनमवादीत् । अपराह्णे द्विवादने समापनसमारोहः प्राचलत् । अस्मिन् कार्यक्रमे अभ्यागतरूपेण आगतः एडनाडुग्रामस्य अधिकारी सत्यनारायणतन्त्रीमहोदयः “कस्यचित् विद्यार्थिनः जन्मदिनं तस्मायेव सन्तोषं प्रददाति। । किन्तु कस्यचित् विद्यालयस्य जन्मदिनं […]

Continue Reading